(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.1. अध्यायः 001
Mahabharata - Udyoga Parva - Chapter Topics
विराटसभां प्रविष्टेषु राजसु श्रीकृष्णेन पाण्डववृत्तान्तकथनपूर्वकं धृतराष्ट्रंप्रति दूतप्रेषणनिर्धारणम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

श्रीवेदव्यासाय नमः। 5-1-0x(3327)(31688)
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ 5-1-1(31689)
वैशम्पायन उवाच। 5-1-1x(3328)
कृत्वा विवाहं तु कुरुप्रवीरा-
स्तदाऽभिमन्योर्मुदिताः सपक्षाः।
विश्रम्य रात्रावुषसि प्रतीताः
सभां विराटस्य ततोऽभिजग्मुः ॥ 5-1-1(31690)
सभा तु सा मत्स्यपतेः समृद्धा
मणिप्रवेकोत्तमरत्नचित्रा।
न्यस्तासना माल्यवती सुगन्धा
तामभ्ययुस्ते नरराजवर्याः॥ 5-1-2(31691)
अथासनान्याविशतां पुरस्ता-
दुभौ विराटद्रुपदौ नरेन्द्रौ।
वृद्धौ च मान्यौ पृथिवीपतीनां
पित्रा समं तमजनार्दनौ च ॥ 5-1-3(31692)
पाञ्चालराजस्य समीपतस्तु
शिनिप्रवीरः सहरौहिणेयः
मत्स्यस्य राज्ञस्तु सुसन्निकृष्टौ
जनार्दनश्चैव युधिष्ठिरश्च॥ 5-1-4(31693)
सुताश्च सर्वे द्रुपदस्य राज्ञो
भीमार्जुनौ माद्रवतीसुतौ च।
प्रद्युम्नसाम्बौ च युधि प्रवीरौ
विराटपुत्रैश्च सहाभिमन्युः ॥ 5-1-5(31694)
सर्वे च शूराः पितृभिः समाना
वीर्येण रूपेण बलेन चैव।
उपाविशन्द्रौपदेयाः कुमाराः
सुवर्णचित्रेषु वरासनेषु ॥ 5-1-6(31695)
तथोपविष्टेषु महारथेषु
विराजमानाभरणाम्बरेषु
रराज सा राजवती समृद्धा
ग्रहैरिव द्यौर्विमलैरुपेता ॥ 5-1-7(31696)
ततः कथास्ते समवाययुक्ताः
कृत्वा विचित्राः पुरुषप्रवीराः ।
तस्थुर्मुहूर्तं परिचिन्तयन्तः
कृष्णं नृपास्ते समुदीक्षमाणाः ॥ 5-1-8(31697)
कथान्तमासाद्य च माधवेन
संघट्टिताः पाण्डवकार्यहेतोः।
ते राजसिंहाः सहिता ह्यश्रृण्व-
न्वाक्यं महार्थं सुमहोदयं च ॥ 5-1-9(31698)
श्रीकृष्ण उवाच। 5-1-10x(3329)
सर्वैर्भवद्भिर्विदितं यथाऽयं
युधिष्ठिरः सौबलेनाक्षवत्याम्।
जितो निकृत्याऽपहृतं च राज्यं
वनप्रवासे समयः कृतश्च ॥ 5-1-10(31699)
शक्तैर्विजेतुं तरसा महीं च
सत्ये स्थितैः सत्यरथैर्यथावत्।
पाण्डोः सुतैस्त्रद्रुतमुग्ररूपं
वर्षाणि षट् सप्त च चीर्णमग्र्यैः ॥ 5-1-11(31700)
त्रयोदशश्चैव सुदुस्तरोऽय-
मज्ञायमानैर्भवतां समीपे।
क्लेशानसह्यान्विविधान्सहद्भि-
र्महात्मभिश्चापि वने निविष्टम्।
एतैः परप्रेष्यनियोगयुक्तै-
रिच्छद्भिराप्तं स्वकुलेन राज्यम्॥ 5-1-12(31701)
एवं गते धर्मसुतस्य राज्ञो
दुर्योधनस्यापि च यद्धितं स्यात्।
तच्चिन्तयध्वं कुरुपाण्डवानां
धर्म्यं च युक्तं च यशस्करं च ॥ 5-1-13(31702)
अधर्मयुक्तं न च कामयेत
राज्यं सुराणामपि धर्मराजः।
धर्मार्थयुक्तं तु महीपतित्वं
ग्रोमेऽपि कस्मिंश्चिदयं बुभूषेत् ॥ 5-1-14(31703)
पित्र्यं हि राज्यं विदितं नृपाणां
यथाऽपकृष्टं धृतराष्ट्रपुत्रैः।
मिथ्योपचारेण यथा ह्यनेन
कृच्छ्रं महत्प्राप्तमसह्यरूपम् ॥ 5-1-15(31704)
न चापि पार्थो विजितो रणे तैः
स्वतेजसा धृतराष्ट्रस्य पुत्रैः।
तथाऽपि राजा सहितः सुहृद्भि-
रभीप्सतेऽनामयमेव तेषाम् ॥ 5-1-16(31705)
यत्तु स्वयं पाण्डुसुतैर्विजित्य
समाहृतं भूमिपतीन्प्रपीड्य
तत्प्रार्थयन्ते पुरुषप्रवीराः
कुन्तीसुता माद्रवतीसुतौ च ॥ 5-1-17(31706)
बलाभियुक्तैर्विविधैरुपायैः
संप्रार्थिता हन्तुममित्रसङ्घैः।
राज्यं जिहीर्षद्भिरसद्भिरुग्रैः
सर्वं च तद्वो विदितं यथावत् ॥ 5-1-18(31707)
तेषां च लोभं प्रसमीक्ष्य वृद्धं
धर्मज्ञतां चापि युधिष्ठिरस्य।
संबन्धितां चापि समीक्ष्य तेषां
मतिं कुरुध्वं सहिताः पृथक्व । 5-1-19(31708)
इमे च सत्येऽभिरताः सदैव
तं पालयित्वा समयं यथावत्।
अतोऽन्यथा तैरुपचर्यमाणा
हन्युः समेतान्धृतराष्ट्रपुत्रान्॥ 5-1-20(31709)
तैर्विप्रकारं च निशम्य कार्ये
सुहृज्जनास्तान्परिवारयेयुः।
युद्धेन बाधेयुरिमांस्तथैवं
तैर्बाध्यमाना युधि तांश्च हन्युः ॥ 5-1-21(31710)
तथाऽपि नेमेऽल्पतयाऽसमर्था-
स्तेषां जयायेति भवेन्मतिर्वः ।
समेत्य सर्वे सहिताः सुहृद्भि-
स्तेषां विनाशाय यतेयुरेव ॥ 5-1-22(31711)
दुर्योधनस्यापि मतं यथाव-
न्न ज्ञायते किं नु करिष्यतीति
अज्ञायमाने च मते परस्य
मन्त्रस्य पारं कथमभ्युपेमः ॥ 5-1-23(31712)
तस्मादितो गच्छतु धर्मशीलः
शुचिः कुलीनः पुरुषोऽप्रमत्तः।
दूतः समर्थः प्रशमाय तेषां
राज्यार्धदानाय युधिष्ठिरस्य ॥ 5-1-24(31713)
निशम्य वाक्यं तु जनार्दनस्य
धर्मार्थयुक्तं मधुरं समं च।
समाददे वाक्यमथाग्रजोऽस्य
संपूज्य वाक्यं तदतीव राजन् ॥ ॥ 5-1-25(31714)

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि प्रथमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-1-1 प्रतीताः प्रबुद्धाः ॥ 1 ॥ 5-1-3 आविशतामुपविष्टौ । पित्रा बसुदेवेन ॥ 3 ॥ 5-1-10 अक्षवत्यां द्यूतक्रीडायाम् ॥ 10 ॥ 5-1-11 सत्यं रथवदारोद्धं योग्यं योषाम् ॥ 11 ॥ 5-1-14 बभूषेत् प्राप्तुमिच्छेत् । तङभाव आर्षः ॥ 14 ॥ 5-1-16 अनामयं कुशलम् ॥ 16 ॥ 5-1-20 अतो राज्यार्धप्रदानात् ॥ 20 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.